च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विद॑म्। वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः॥
candram agniṁ candrarathaṁ harivrataṁ vaiśvānaram apsuṣadaṁ svarvidam | vigāhaṁ tūrṇiṁ taviṣībhir āvṛtam bhūrṇiṁ devāsa iha suśriyaṁ dadhuḥ ||
च॒न्द्रम्। अ॒ग्निम्। च॒न्द्रऽर॑थम्। हरि॑ऽव्रतम्। वै॒श्वा॒न॒रम्। अ॒प्सु॒ऽसद॑म्। स्वः॒ऽविद॑म्। वि॒ऽगा॒हम्। तूर्णि॑म्। तवि॑षीभिः। आऽवृ॑तम्। भूर्णि॑म्। दे॒वासः॑। इ॒ह। सु॒ऽश्रिय॑म्। द॒धुः॒॥
स्वामी दयानन्द सरस्वती
अब अग्नि विषय को अगले मन्त्र में कहा है।
स्वामी दयानन्द सरस्वती
अथाग्निविषयमाह।
हे मनुष्या यथा देवास इह चन्द्ररथं हरिव्रतमप्सुसदं स्वर्विदं विगाहं तूर्णिन्तविषीभिरावृतं भूर्णिं सुश्रियं वैश्वानरं चन्द्रमग्निं दधुस्तथैनं यूयमपि धरत ॥५॥